|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.20. अध्यायः 020
Mahabharata - Bhishma Parva - Chapter Topics
कुरुसेनागमनप्रकारवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच।
सूर्योदये सञ्जय के नु पूर्वं
युयुत्सवो हृष्यमाणा इवासन्।
मामका वा भीष्मनेत्राः समीपे
पाण्डवा वा भीमनेत्रास्तदानीम् ॥ 6-20-1(39366)
केषां जघन्यौ समसूर्यौ सवायू
केषां सेनां श्वापदाश्चाभषन्त ।
केषां यूनां मुखवर्णाः प्रसन्नाः
सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥ 6-20-2(39367)
सञ्जय उवाच। 6-20-3x(3996)
उभे सेने तुल्यमिवोपयाते
उभे व्यूहे हृष्टरूपे नरेन्द्र।
उभे चित्रे वनराजिप्रकाशे
तथैवोभे नागरथाश्वपूर्णे॥ 6-20-3(39368)
उभे सेने बृहत्यौ भीमरूपे
तथैवोभे भारत दुर्विषह्ये ।
तथैवोभे स्वर्गजयाय सृष्टे
तथैवोभे सत्पुरुषोपजुष्टे ॥ 6-20-4(39369)
पश्चान्मुखाः कुरवो धार्तराष्ट्राः
स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः ।
दैत्येन्द्रसेनेव च कौरवाणां
देवेन्द्रसेनेव च पाण्डवानाम् ॥ 6-20-5(39370)
शीतो वायुः पृष्ठतः पाण्डवानां
धार्तराष्ट्राञ्श्वापदा व्याहरन्त ।
गजेन्द्राणां मदगन्धांश्च तीव्रा-
न्न सेहिरे तव पुत्रस्य नागाः ॥ 6-20-6(39371)
दुर्योधनो हस्तिनं पद्मवर्णं
सुवर्णकक्षं जालवन्तं प्रभिन्नम् ।
समास्थितो मध्यगतः कुरूणां
संस्तूयमानो बन्दिभिर्मागधैश्च ॥ 6-20-7(39372)
चन्द्रप्रभं श्वेतमथातपत्रं
सौवर्णस्रग्भ्राजति चोत्तमाङ्गे ।
तं सर्वतः शकुनिः पार्वतीयैः
सार्धं गान्धारैर्याति गान्धारराजः ॥ 6-20-8(39373)
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः
श्वेतच्छत्रः श्वेतधनुः सखङ्गः ।
श्वेतोष्णीषः पाण्डुरेण ध्वजेन
श्वेतैरश्वैः श्वेतशैलप्रकाशैः ॥ 6-20-9(39374)
तस्य सैन्ये धार्तराष्ट्राश्च सर्वे
बाह्लीकानामेकदेशः शलश्च।
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धो-
स्तथा सौवीराः पञ्चनदाश्च शूराः ॥ 6-20-10(39375)
शोणैर्हयै रुक्मरथो महात्मा
द्रोणो धनुष्पाणिरदीनसत्वः ।
आप्तो गुरुः प्रथितः सर्वराज्ञां
पश्चाच्चमूमिन्द्र इवाभियाति ॥ 6-20-11(39376)
वार्धक्षत्रिः सर्वसैन्यस्य मध्ये
भूरिश्रवाः पुरुमित्रो जयश्च।
साल्वा मत्स्याः केकयाश्चेति सर्वे
गजानीकैर्भ्रातरो योत्स्यमानाः ॥ 6-20-12(39377)
शारद्वतश्चोत्तरधूर्महात्मा
महेष्वासो गौतमश्चित्रयोधी।
शकैः किरातैर्यवनैः पह्लवैश्च
सार्धं चमूमुत्तरतोऽभियाति॥ 6-20-13(39378)
महारथैर्वष्णिभोजैः सुगुप्तं
सुराष्ट्रकैर्विदितैरात्तशस्त्रैः ।
बृहद्बलं कृतवर्माभिगुप्तं
बलं त्वदीयं दक्षिणेनाभियाति ॥ 6-20-14(39379)
संशप्तकानामयुतं रथानां
मृत्युर्जयो वार्जुनस्येति सृष्टाः।
येनार्जुनस्तेन राजन्कृतास्त्राः
प्रयातारस्ते त्रिगर्ताश्च शूराः ॥ 6-20-15(39380)
साग्रं शतसहस्रं तु नागानां तव भारत ।
नागेनागे रथशतं शतमश्वा रथेरथे ॥ 6-20-16(39381)
अश्वेऽश्वे दश धानुष्का धानुष्के शत चर्मिणः।
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥ 6-20-17(39382)
संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम्।
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ॥ 6-20-18(39383)
महारथौघविपुलः समुद्र इव घोषवान्।
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥ 6-20-19(39384)
अनन्तरूपा ध्वजिनी नरेन्द्र
भीमा त्वदीया न तु पाण्डवानाम्।
तां चैव मन्ये बृहतीं दुष्प्रघर्षां
यस्या नेता केशवश्चार्जुनश्च ॥ ॥ 6-20-20(39385)
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि विंशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-20-1 भीष्मो नेत्रः नेता येषां ते भीष्मनेत्राः ॥ 6-20-15 येन यत्र। तेन तत्र ॥ 6-20-20 अनन्तरूपा वह्वी त्वदीया नतु पाण्डवानां सेना वह्वी। तथापि तां बृहतीमेव मन्ये इति संबन्धः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|